शनिवार, 23 अगस्त 2014

दो तरह के श्रीकृष्णाष्टकम् के माध्यम से भगवान श्रीकृष्ण की आराधना की जाती है / Two Srikrishnashtkm




श्रीकृष्णाष्टकम्

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अतसीपुष्पसङ्काशं हार नूपुर शोभितम् ।
रत्नकङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ॥

कुटिलालकसंयुक्तं पूर्णचन्द्र निभाननम् ।
विलसत्कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ॥

मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजम् ।
बर्हिपिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥

उत्फुल्लपद्मपत्राक्षं नील जीमूत सन्निभम् ।
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ॥

रुक्मिणीकेलिसंयुक्तं पीताम्बर सुशोभितम् ।
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ॥

गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ।
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥

श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् ।
शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम् ॥

कृष्णाष्टकमिदंपुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥

श्रीकृष्णाष्टकं 

भजे ब्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैवनन्दनन्दनम।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसागरं नमामिकृष्णनागरम्।।१।।

मनोजगर्वमोचनं विशाललोललोचनं
विघूतगोपशोचनं भजामिपद्यचक्षुषम्।
करारविन्दभूषणं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामिकृष्णवारणम्।।२।।

कदम्बपुष्पकुण्डलं सुचारुगण्डमण्डलं
ब्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्।
यशोदया समोदया सगोपया दयानिधि
उदूखले कृतग्रहं नमामि नन्दनन्दनम्।।३।।

नवीनगोपनागरं नवीनकेलिमन्दिरं
नवीनमेघसुन्दरं भजे ब्रजैकसुन्दरम्।
सदैवपादपङ्कजं मदीयमानसेनिजं
दधातुनन्दबालक: समस्तभक्तपालक:।।४।।

समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामिकुञ्जमध्यगं प्रसन्नभानुशोभनम् !
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामिकुञ्जनायकं !!

भुवोभरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामिचित्तचोरकम् !
दृगन्तकान्तभंगिनं सदासदालसंगिनं
दिनेदिनेनवंनवं नमामिनन्दसम्भवं !!

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामिगोपनन्दनं !
नवीनगोपनागरं नवीनकेलिलं पटम्
नमामिमेघसुन्दरं तदित्प्रभालसत्पटम् !!

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामिकुञ्जकानेन प्रवृद्धवन्हिपयिनं !
यदातदा यथातथा तथैवकृष्णसत्कथा
मयासदैवगीयतां तथाकृपाविधीयताम् !!

प्रमाणिकाष्टकद्वयं जपत्यधीत्ययःपुमान्
भवेत्सनन्दनन्दनेभवेभवेसुभक्तिमान् !

कोई टिप्पणी नहीं: